देवी माहात्म्यं अपराध क्षमापणा स्तोत्रम् - Marathi - वेद - देवी स्तोत्रे - श्री कृष्ण जन्माष्टमी | BhaktiGranth: A Library Of Vedas, Stotrams, & Devotional Literature
16

देवी माहात्म्यं अपराध क्षमापणा स्तोत्रम् - देवी स्तोत्रे

अपराधशतं कृत्वा जगदंबेति चोच्चरेत्।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥1॥

सापराधोऽस्मि शरणां प्राप्तस्त्वां जगदंबिके।
इदानीमनुकंप्योऽहं यथेच्छसि तथा कुरु ॥2॥


अज्ञानाद्विस्मृतेभ्रांत्या यन्न्यूनमधिकं कृतं।
तत्सर्व क्षम्यतां देवि प्रसीद परमेश्वरी ॥3॥

कामेश्वरी जगन्माताः सच्चिदानंदविग्रहे।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी ॥4॥

सर्वरूपमयी देवी सर्वं देवीमयं जगत्।
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीं ॥5॥

पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरी
यदत्र पाठे जगदंबिके मया विसर्गबिंद्वक्षरहीनमीरितम्। ॥6॥

तदस्तु संपूर्णतं प्रसादतः संकल्पसिद्धिश्च सदैव जायतां॥7॥

भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्तमव्यक्तमंब ॥8॥

तत् सर्वं सांगमास्तां भगवति त्वत्प्रसादात् प्रसीद ॥9॥

प्रसादं कुरु मे देवि दुर्गेदेवि नमोऽस्तुते ॥10॥

॥इति अपराध क्षमापण स्तोत्रं समाप्तं॥